|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.215. अध्यायः 215
Mahabharata - Vana Parva - Chapter Topics
कौशिकंप्रति धर्मव्याधे नभूतपञ्चकगुणनिरूपणपूर्वकमिन्द्रियजयाजययोः सुखदुःखासाधारणकारणताकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-215-0x(2495)(24407)
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत।
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ॥ 3-215-1(24408)
ब्राह्मण उवाच। 3-215-2x(2496)
महाभूतानि यान्याहुः पञ्च धर्मविदांवर।
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ॥ 3-215-2(24409)
व्याध उवाच। 3-215-3x(2497)
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च।
गुणोत्तराणइ सर्वाणि तेषां वक्ष्यामि ते गुणान् ॥ 3-215-3(24410)
भूमिः पञ्चगुणा ब्रह्मननुदकं च चतुर्गुणम्।
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ॥ 3-215-4(24411)
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः।
एतेगुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ॥ 3-215-5(24412)
शब्दः स्पर्शश्च रूपं च सरश्चापि द्विजोत्तम।
अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ॥ 3-215-6(24413)
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः।
शब्दः स्पर्शश्च वायौ तु शब्दश्चाकाश एव तु ॥ 3-215-7(24414)
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु।
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ॥ 3-215-8(24415)
अन्योन्यं नातिवर्तन्ते सम्यक्व भवति द्विज।
यदा तु विषमं भावमाचरन्ति चराचराः ॥ 3-215-9(24416)
तदा देही देहमन्यं व्यतिरोहति कालतः।
प्रातिलोम्याद्विनश्यन्ति जायन्ते चानुपूर्वशः ॥ 3-215-10(24417)
तत्र तत्रहि दृश्यन्ते धातवः पाञ्चभौतिकाः।
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ 3-215-11(24418)
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम्।
तदव्यक्तमिति ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ 3-215-12(24419)
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु।
इन्द्रियाणि तथा देही धारयन्निह तप्यते ॥ 3-215-13(24420)
लोके विततमात्मानं लोकं चात्मनि पश्यति।
परापरज्ञः सक्तः सन्स तु भूतानि पश्यति ॥ 3-215-14(24421)
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा।
ब्रह्मभूतस् संयोगो नाशुभेनोपपद्यते ॥ 3-215-15(24422)
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम्।
लोकबुद्धिप्रकाशेन ज्ञेयमार्गेण गम्यते ॥ 3-215-16(24423)
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम्।
अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ॥ 3-215-17(24424)
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि।
`तपसा हि समाप्नोति यद्यदेवाभिवाञ्छति'।
इन्द्रियाण्येव संयम्य तपो भवति नान्यथा ॥ 3-215-18(24425)
इन्द्रियाण्येव तत्सर्वंयत्स्वर्गनरकावुभौ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ 3-215-19(24426)
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्।
एतन्मूलं हि तपसः स्वर्गस्य नरकस्य च ॥ 3-215-20(24427)
इन्द्रियाणां प्रसङ्गेन दोमार्च्छत्यसंशयम्।
सन्नियम्य तु तान्येव ततः सिद्धिं समाप्नुयात् ॥ 3-215-21(24428)
षण्णामात्प्रनि योज्यानामैश्वर्यं योऽधितिष्ठति।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ 3-215-22(24429)
रथः शरीरं पुरुषस्य दृष्ट-
मात्मा नियन्तेन्द्रियाण्याहुरश्वान्।
तैरप्रमत्तः कुशली सदश्वै-
र्दान्त सुखं याति रथीव धीरः ॥ 3-215-23(24430)
षण्णामात्मनियुक्तानामिन्द्रियाणां प्रमाथिनाम्।
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥ 3-215-24(24431)
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु।
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ॥ 3-215-25(24432)
इन्द्रियाणां विचरतां यन्मनोऽनुविधीयते।
तदस् हरते बुद्धिं नावं वायुरिवाम्भसि ॥ 3-215-26(24433)
येषु विप्रतिपद्यन्ते षट्स्वमोहात्फलागमम्।
तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ॥ 3-215-27(24434)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-215-3 गुणोत्तराणि उत्तरोत्तरगुणाः पूर्वपूर्वस्मिन्वर्तन्त इत्यर्थः ॥ 3-215-10 आनुपूर्व्या विनश्यन्ति इति झ. थ. पाठः ॥ 3-215-20 कृत्स्नस्य नरकस्य चेति झ. ध. पाठः ॥ 3-215-27 षट्सु मोहात् इति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|